|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.214. अध्यायः 214
Mahabharata - Vana Parva - Chapter Topics
धर्मव्याधेन कौशिकंप्रति प्राणिभिर्दुष्कृतसुकृतकरणप्रकारादिकधनपूर्वकं ब्राह्मणमाहात्म्यादिकथनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
मार्कण्येय उवाच। 3-214-0x(2491)(24385)
एवमुक्तस्तु विप्रेण धर्मव्याधो युधिष्ठिर।
प्रत्युवाच यथा विप्रं तच्छृणुष्व नराधिप ॥ 3-214-1(24386)
व्याध उवाच। 3-214-2x(2492)
विज्ञानार्थं मनुष्याणां मनः पूर्वं प्रवर्तते।
तत्प्राप्य कामं भजतेक्रोधं च द्विजसत्तम ॥ 3-214-2(24387)
ततस्तदर्थं यतते कर्म चारभते महत्।
इष्टानां रूपगन्धानामभ्यासं च निषेवते ॥ 3-214-3(24388)
ततो रागः प्रभवति द्वेषश्च तदनन्तरम्।
ततो लोभः प्रभवति मोहश्च तदनन्तरम् ॥ 3-214-4(24389)
तस् लोभाभिभूतस्य रागद्वेषहतस्य च।
न धर्मे जायते बुद्धिर्व्याजाद्धर्मं करोति च ॥ 3-214-5(24390)
व्याजेन चरते धर्ममर्थं व्याजेन रोचते।
व्याजेन सिध्यमानेषु धनेषु द्विजसत्तम ॥ 3-214-6(24391)
तत्रैव रमते बुद्धिस्ततः पापं चिकीर्षति।
सुहृद्भिर्वार्यमाणश्च पण्डितैश्च द्विजोत्तम ॥ 3-214-7(24392)
उत्तरं श्रुतिसंबद्धं ब्रवीत्यश्रुतियोजितम्।
अधर्मस्त्रिविधस्तस्य वर्तते रागदोषजः ॥ 3-214-8(24393)
पापं चिन्तयते चैव ब्रवीति च करोति च।
तस्याधर्मप्रवृत्तस्य गुणा नश्यन्ति साधवः ॥ 3-214-9(24394)
एकशीलाश्च मित्रत्वं भजन्ते पापकर्मिणः।
स तेन दुःखमाप्नोति परत्र च विपद्यते ॥ 3-214-10(24395)
पापात्मा भवति ह्येवं धर्मलाभं तु मे शृणु।
यस्त्वेतान्प्रज्ञाया दोषान्पूर्वमेवानुपश्यति ॥ 3-214-11(24396)
कुशलः सुखदुःखेषु सांधूंश्चाप्युपसेवते।
तस्य साधुसमारम्भाद्बुद्ध्रिधर्मेषु राजते ॥ 3-214-12(24397)
ब्राह्मण उवाच। 3-214-13x(2493)
ब्रवीषि सूनृतंधर्मं यस्य वक्ता न विद्यते।
दिव्यप्रभावः सुमहानृषिरेव मतोसि मे ॥ 3-214-13(24398)
व्याध उवाच। 3-214-14x(2494)
ब्राह्मणा वै महाभागाः पितरोऽग्रभुजः सदा।
तेषां सर्वात्मना कार्यं प्रियं लोके मनीषिणा ॥ 3-214-14(24399)
यत्तेषां च प्रियं तत्ते वक्ष्यामि द्विजसत्तम।
नमस्कृत्वा ब्राह्मणेभ्यो ब्राह्मीं विद्यां निबोध मे ॥ 3-214-15(24400)
इदं विश्वं जगत्सर्वमजगच्चापि सर्वशः।
महाभूतात्मकं ब्रह्मन्नातः परतरं भवेत् ॥ 3-214-16(24401)
महाभूतानि खं वायुरग्निरापस्तथा च भूः।
शब्दः स्पर्शश्च रूपं च रसो गन्धश् तद्गुणाः ॥ 3-214-17(24402)
तेषामपि गुणाः सर्वे गुणवृत्तिः परस्परम्।
पूर्वपूर्वगुणाः सर्वे क्रमशो गुणिषु त्रिषु ॥ 3-214-18(24403)
षष्ठी तु चेतना नाम मन इत्यभिधीयते।
सप्तमी तु भवेद्बुद्धिरहंकारस्ततः परम् ॥ 3-214-19(24404)
इन्द्रियाणि च पञ्चात्मा रजः सत्वं तमस्तथा।
इत्येष सप्तदशको राशिरव्यक्तसंज्ञकः ॥ 3-214-20(24405)
सर्वैरिहेन्द्रियार्थैस्तु व्यक्ताव्यक्तैः सुसंवृतैः।
चतुर्विंसक इत्येष व्यकत्वाव्यक्तमयो गुणः।
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥ 3-214-21(24406)
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि चतुर्दशाधिकद्विशततमोऽध्यायः ॥ 214 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|